Dear Dharmik Readers
-
Have a Blessed day. Suvachanam intends to remind you of some good fodder for your thoughts. This journal would seek to ignite some thoughts. Provoke some churning. Cause a smile. Churn a debate internally. Share a good mood. This would be a good medium for us to spread positivity.
काव्यशास्त्र विनोदेन कालो गच्छति धीमताम्।
Erudition and Scholastic engagement should be resort for intelligentsia, to spend the spare time. Let us engage further. The content would also be available at fb.com/suvachanam, where we can engage in a friendly banter too. Namo Mahadbhyah.
This edition will bring some cheers with riddles in Sanskrit>>
==00==
-
प्रहृष्टो मुदितो लोकस्तुष्ट: पुष्टस्सुधार्मिक: ।
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जित: ।।1.1.90।।॥ (रामायण सङ्क्षेपः)
-
prahr̥ṣṭō muditō lōkastuṣṭa: puṣṭas'sudhārmika: .
nirāmayō hyarōgaśca durbhikṣabhayavarjita: ..1.1.90... (rāmāyaṇa saṅkṣēpaḥ)
-
Be happy. Cheerful. Become Nourished. Once you are on the path of Dharma, you will such traits as well as devoid of disease, drought and danger. Why do seek Rama Rajya, at least for name sake? Just because of such great virtues in the citizens and resultant benefits.
"The people are joyful and delighted, satisfied and prosperous, virtuous and healthy, free from disease, famine, and fear."
Essence: This verse paints a picture of a utopian or harmonious existence. It describes a world where individuals are not only happy and content but also thriving—both materially and morally. The absence of illness, hunger, and fear suggests a state of complete well-being and security, while the emphasis on virtue ("su-dharmikah," meaning righteous or adhering to dharma) indicates a society grounded in ethical and moral principles. In essence, it reflects an idealized vision of human life marked by joy, abundance, health, and peace, free from suffering or turmoil.
Happy Yugadi. Let us aspire for such as a regime, which could bring that grandeur at least partially.
==00==
-
विषयः - मन्त्र लक्षणम्
-
लेखकः - अवधानुल चिन्मयदत्त घनपाठी (वेदविज्ञान विष्टरम्, मैसूरु)
-
- वेदमन्त्रलक्षणम्
- मन्त्र ब्राह्मणात्मकः वेदः।
- अहे बुध्निय मन्त्रं मे गोपाय। यमृषयस्त्रैविदा विदुः। ऋचस्सामानि यजूषि। अत्र व्याख्यानम्।
- त्रीन्वेदान्विदन्ति- इति त्रिविदः। त्रिविदां संबन्धिनोऽध्येतारः त्रैविदाः। ते च यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुः, तं गोपाय- इति योजना।
- तत्र त्रिविधानाम् ऋक्-साम-यजुषां व्यवस्थितं लक्षणं कथं वर्तते? साङ्कर्यस्य दुष्परिहरत्वात् इति आशङ्का।
- यद्यपि, अध्यापकप्रसिद्धेर्हि ऋग्वेदादिषु पठितो मन्त्र ऋगादिः' इति हि लक्षणं वक्तव्यम्, तत्तु संकीर्णम्। यथा-
- देवो व.स्सवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः। इत्ययं मन्त्रो यजुर्वेदे संप्रतिपन्नयजुषां मध्ये पठितः। न च तस्य यजुष्ट्वमस्ति। तद्ब्राह्मणे- सावित्रियर्चा इत्युक्तत्वात्।
- एतत्साम गायन्नास्ते' इति प्रतिज्ञाय, किंचित्साम यजुर्वेदे गीतम्।
- अक्षितमसि'। 'अच्युतमसि'। 'प्राणसंशितमसि'- इति त्रीणि यजूंषि सामवेदे समाम्नातानि।
- तथा च गीयमानस्य साम्नः आश्रयभूता ऋचः सामवेदे समाम्नायन्ते, यस्य ग्रन्थस्य नामापि आर्चिकम् इत्येव।
- अथ ऋग्वेदे ब्राह्मणग्रन्थे तावत्, ओमुक्थशा इत्यध्वर्युश्चतुरक्षरम् .... अध्वर्यो शो शोंसावोमित्याह्वयते तृतीयसवने सप्ताक्षरेण ... (ऐ.ब्रा., 3 पञ्चिका, 2 अध्या 1 खण्डः) अग्निष्ट्वा गायत्र्या सयुक्छन्दसा रोहतु। ... (ऐ.ब्रा. 8 पञ्चिका, 2 अध्या, 2 खण्डः) एतादॄंशि यजूंषि बहूनि दरीदृश्यन्ते। एवञ्चेत्, तस्य लक्षणं दुष्प्रापमिति संशीयते। अत उत्तरमित्थं समाहितं स्यात्।
- यद्यपि ऋग्वेद-यजुर्वेद-सामवेदनामकेषु ग्रन्थेषु अन्यप्रकारा मन्त्रा दृश्येरन्, किन्तु तन्मन्त्रलक्षणं तु स्पष्टमेव- पादादीनाम् असंकीर्णलक्षणत्वात्।
- ऋचः एवं भवन्ति, यजूंष्येवम्, सामान्येवमिति।।
- ऋग्लक्षणम्- पादेनार्थेन चोपेता वृत्तबद्धा मन्त्रा ऋचः।
- गीतिरूपा मन्त्राः सामानि।
- वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि।
- इत्युक्ते न क्वापि संकरः।
- अथ कतिविधो मन्त्रः इति जानीमः, येन प्रकारेण भगवता वैशम्पायनेन विभागोकारि। कर्मसु अनुष्ठानकाले प्रयुज्यमानाः मन्त्राः ऋक्- यजुः सामरूपाः इति त्रिविधाः श्रूयन्ते।
-
Shaastra Vaakyam .. 1 Meemaamsa Shaastra
Jaimineeya Nyaya Maala Vistarah - Mantra Brahmana Lakshanam
-
(जैमिनीय न्यायमाला विस्तरे सप्तमाधिकरणम्- (जै.न्या.वि. 2.1.7)
- अहे बुध्निय मन्त्रं म इति मन्त्रस्य लक्षणम्। नास्त्यस्ति वाऽस्य नास्त्येतदव्याप्त्यादेः अवारणात्।। 22।।
- याज्ञिकानां समाख्यानं लक्षणं दोषवर्जितम्। तेऽनुष्ठानस्मारकादौ मन्त्रशब्दं प्रयुञ्जते।। 23।।
- अग्न्याधेयप्रकरणे मन्त्रोय.माम्नायते- अहे बुध्निय मन्त्रं मे गोपाय इति। (तै.ब्रा.1.2.1)
- तत्र मन्त्रस्य लक्षणं नास्ति, अव्याप्त्यतिव्याप्त्योः वारयितुमशक्यत्वात् इति न शङ्कनीयम्।
- याज्ञिकसमाख्यानादेव मन्त्रस्वरूपं ज्ञायते। शिष्टाः याज्ञिकाः अयं मन्त्रः इति, तेषु मन्त्रेषु च इमा ऋचः, एतानि यजूंषि, एतानि सामानि- इति प्रयोगवशात् विविच्य प्रदर्शयन्ति।
- तच्च याज्ञिक समाख्यानम्, अनुष्ठानस्मारकादीनां वेदवाक्यानां मन्त्रत्वं गमयति इति जैमिनीय-मन्त्रलक्षण-सूत्रार्थः। उदाहरणार्थं कांश्चन प्रकरानत्र विविञ्च्मः।
- उरु प्रथस्व- इत्यादयोऽनुष्ठानस्मारकाः।
- अग्निमीळे पुरोहितम्- इत्यादयः स्तुतिरूपाः।
- इषे त्वा- इत्यादयस्त्वान्ताः।
- अग्न आ याहि वीतये - इत्यादय आमन्त्रणोपेताः।
- अग्नीदग्नीन् विहर- इत्यादयः प्रैषरूपाः।
- अधस्स्विदासी3दुपरि स्विदासी3त् इत्यादयो विचाररूपाः।
- अम्बे अम्बाल्यम्बिके न मा नयति कश्चन - इत्यादयः परिदेवनरूपाः।
- पृच्छामि त्वा परमन्तं पृथिव्याः- इत्यादयः प्रश्नरूपाः।
- वेदिमाहुः परमन्तं पृथिव्याः- इत्यादय उत्तररूपाः।
- एवमन्यदप्युदाहर्तव्यम्। ईदृशेषु अत्यन्तविजातीयेषु वाक्येषु, याज्ञिकानां समाख्यान.मन्तरेण, नान्यः कश्चिदनुगतो धर्मोऽस्ति, यस्य लक्षणत्वमुच्येत।
- विहितार्थाभिधायको मन्त्रः इति, मननहेतु.र्मन्त्रः इति, असिपदान्तो मन्त्रः, उत्तमपुरुषान्तो मन्त्रः इति वा उपलक्षणतया यद्यप्युपचर्यते, तथापि
- मन्त्रोऽयम् इति अभियुक्तानां याज्ञिकानां विदुषां समाख्यानादेव मन्त्रत्वं बोध्यते- इति वचनं सुस्थितम्।। 23।।
-
-
मन्त्रलक्षणमुक्त्वा, ब्राह्मणवाक्यस्य लक्षणं जिज्ञासामः, जैमिनीयन्यायमालाविस्तरमुखेन।
द्वितीयाध्याये प्रथमपादे, अष्टमाधिकरणम् - ब्राह्मणनिर्वचनाधिकरणम्
- ð शेषे ब्राह्मणशब्दः।। 32।। (2.1.32)
- नास्त्येतद्ब्रह्मणेत्यत्र लक्षणं विद्यतेऽथवा। नास्तीयन्तो वेदभागा इति क्लृप्तेरभावतः।। 24।।
- मन्त्रश्च ब्राह्मणं चेति द्वौ भागौ तेन मन्त्रतः। अन्यद्ब्राह्मणमित्येतद् भवेद्ब्राह्मणलक्षणम्।। 25।।
- चातुर्मास्येष्विदमाम्नायते- एतद्ब्राह्मणान्येव पञ्च हवीषि- इति। (तै.ब्रा.1.7.1)
- चातुर्मास्यानि इति यागनामधेयम्। चतुर्षु मासेषु ऋतुप्रभेदेन कर्तव्याः इष्टयः इति सङ्क्षेपः। तत्र वैश्वदेवम्, वरुणप्रघासः, साकमेधः, शुनासीरीयः इति कर्माणि भवन्ति। (आप.श्रौ.सू. प्र 8 – सू 21, 22)। तत्र चतुर्थं शुनासीरीयम्। शुनासीरो नाम इन्द्र एव, इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालम् – इति इन्द्रशब्दविशेषणत्वात्। (तच्छब्दव्युत्पत्तिरेवं भवति- शुनः वायुः। सीरः आदित्यः। आभ्यां युक्तः इन्द्रः शुनासीरः।)
- तत्र कर्मणि शुनासीरीये, पूर्वस्मात् वैश्वदेवपर्वणः पञ्च हवींषि अतिदिश्यन्ते- एतद्ब्राहणान्येव पञ्च हवीषि। इति वाक्येन। इतः परं षष्ठं हविः – अथेन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं निर्वपति। ... इति विधायकवाक्यम्।
- अत्र, एतद्ब्राहणान्येव पञ्च हवीषि। (तै.ब्रा 1.7.1) इत्यत्रोपयुक्तो ब्राह्मणशब्दः व्याख्येयः भवति। एतच्छब्देन पूर्वप्रकरणे वैश्वदेवब्राह्मणे विहितानि हवींषि अभिप्रेयन्ते। अथ ब्राह्मणशब्दः निर्वचनीयः मीमांसाशास्त्रमुखात्।
- मन्त्रः कथंभूत इति याज्ञिकसमाख्यानेन ज्ञायते चेत्, ब्राह्मणवाक्यं कथंभूतमिति साधारणलक्षणं ब्रवीति जैमिनिः उपरितन सूत्रेण शेषे ब्राह्मणशब्दः इति।
- हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः।
-
परक्रिया पुराकल्पो व्यवधारणकल्पना।। इति।
- तेन ह्यन्नं क्रियते - इति हेतुः।
- तद्दध्नो दधित्वम् - इति निर्वचनम्।
- अमेध्या वै माषाः- इति निन्दा।
- वायुर्वै क्षेपिष्ठा देवता- इति प्रशंसा।
- तद्व्यचिकित्सज्जुहवानी 3, मा हौषा3म्- इति संशयः।
- यजमानेन संमितौदुम्बरी भवति- इति विधिः।
- माषानेव मह्यं पचत- इति परकृतिः।
- पुरा ब्राह्मणा अभैषुः- इति पुराकल्पः।
- यावतोऽश्वान्प्रतिगृह्णीयात्, तावतो वारुणान् चतुष्कपालान्निर्वपेत्। इति विशेषावधारणाकल्पनं भवति।
- हिनोता नो अध्वरं देवयज्या इति दशमीम्, आवर्वृततीरध नु द्विधारा इत्यावृत्तास्वेकधनासु ... एवंप्रकारकेषु वाक्येषु इतिकरणबहुलं दृश्यते।
- अग्नये मथ्यमानायानुब्रूहि इत्याहाध्वर्युः। ऐ.ब्रा. (1.3.16) ‘इत्याह‘ इत्यनेन वाक्येन उपनिबद्धं ब्राह्मणं भवति इति च लक्ष्यते।
- ऋषयो वै सरस्वत्यां सत्रमासत – (ऐ.ब्रा. 2.3.1) एवमादि आख्यायिकारूपं ब्राह्मणम् -
- एवमन्यदप्युदाहार्यम्।
-
किन्तु, मन्त्रेष्वपि कादाचित्कतया पूर्वोक्तहेत्वादिसद्भावः स्यात्। यथा-
- इन्दवो वामुशन्ति हि- इति हेतुः।
- उदानिषुर्महीरिति तस्मादुदकमुच्यते - इति निर्वचनम्।
- मोघमन्नं विन्दते अप्रचेताः - इति निन्दा।
- अग्निर्मूर्धा दिवः ककुत्पतिः - इति प्रशंसा।
- अधस्स्विदासी3 दुपरि स्विदासी3त् - इति संशयः।
- वसन्ताय कपिञ्जलानालभेत इति विधिः।
- सहस्रमयुतं ददत् इति परकृतिः।
- यज्ञेन यज्ञमयजन्त देवाः इति पुराकल्पः।
- इत्यददा इत्ययजथा इत्यपचः- इति ब्राह्मणो गायेत् इत्यस्मिन्ब्राह्मणेन गातव्ये मन्त्रे इतिकरणं वर्तते।
- राजा चिद्यं भगं भक्षीत्याह। यो वारक्षा.श्शुचिरस्मीत्याह। इत्यादौ इत्याह पदश्रवणम्।
- यमयमीसंवादसूक्तादिषु (मन्त्रेषु) आख्यायिका गम्यते।
-
अतः, मन्त्रब्राह्मणरूपौ द्वावेव वेदभागौ' इत्यङ्गीकारात्, मन्त्रलक्षणस्य पूर्वमभिहितत्वात्, मन्त्रव्यतिरिक्तः अवशिष्टो वेदभागः ब्राह्मणम्- इत्येतल्लक्षणं सुस्थितं भवति।। 25।।
- यमृषयस्त्रैविदा विदुः। ऋचस्सामानि यजूषि। (तै ब्रा 1.2.26)
- ऋचस्सामानि जज्ञिरे। ... यजुस्तस्मादजायत। (ऋ.सं 8.4.2)??
- मन्त्रोऽयम् इति अभियुक्तानां याज्ञिकानां विदुषां समाख्यानादेव मन्त्रत्वं बोध्यते- इति वचनं सुस्थितम्।। 23।।
To be contd on Page Next